________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
मुपवेशयति; लेपकृदादिना खरण्टितं पात्रबन्धादि यदि प्रक्षालयितुमशक्तस्तदा तदपि प्रक्षालयति । अत्र " चोयग गोणीए दिट्टंतो" [गा. १०३१] इत्यस्यावकाशः । चोदकः प्राहयदि नाम तस्यानुपरिहारिणा कर्तव्यं ततः किमुक्तमात्रमेव करोति ? सर्वं कस्मान्न कुरुते ? । द्वितीय तथाहि यथा भिक्षाहिण्डनार्थमुत्थातुमशक्नुवता परिहारिकेणोक्तः - 'मामुत्थापय' इति उद्देश: तमनुपारिहारिक उत्थापयति तथा भिक्षामटित्वा कस्माद्भक्तमानीय न ददाति ? यथा वा भणितः सन् भिक्षामटित्वा भक्तमानीय तस्मै प्रयच्छति तथा भाण्डप्रत्युपेक्षणादिकमप्यभणित एव कस्मान्न करोति ? सूरिराह - गोण्यात्र दृष्टान्तः
५४७ (A)
यथा कस्यापि गौर्वातादिना भग्नशरीरा, तामुपविष्टामुत्थातुमशक्नुवन्तीं पुच्छे गृहीत्वा गोनायक उत्थापयति । सा चोत्थिता सती स्वयमेव चारिं चरितुं याति । यदि पुनरसमर्था चारिचरणाय गन्तुं तदा चारिं पानीयं चानीय ददाति । एवं च तावत्करोति यावद्बलिष्ठोपजायते। एवं च पारिहारिकोऽपि यद् यत्कर्तुं न शक्नोति तत्तत् से तस्य द्वितीयः अनुपारिहारिकः करोति । यत्पुनः कर्तुमलं तत्स्वयमेवानिगूहितबल-वीर्यः करोति । एवं नाम तेन वीर्याचारोऽनुचीर्णो भवति ॥ १०३२ ॥
For Private and Personal Use Only
गाथा
१०३०-१०३३ अनुपारिहारि
कसामाचारी
५४७ (A)