________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५३० (B)IN
तौ साधू सर्वमात्मीयं भाण्डमादाय शून्यां वसतिं कृत्वा गतौ, शय्यातरेण च बहिरागतेन शून्या वसतिर्दृष्टा, ततः स पृच्छति क्व गतौ साधू? इति। गृहमानुषाणि भणन्ति- न जानीमः, नूनं गतौ भविष्यतः। एतत् श्रुत्वा यदि स प्रीतिकं करोति, यथा यदि गतौ ततो गताविति, तदा तयोः प्रायश्चित्तं चतुर्लघु, अथाऽप्रीतिं करोति, यथा- अकृतज्ञास्ते नि:स्नेहाः, ततोऽनापृच्छ्य गताः, अथवा- निर्दाक्षिण्यास्ते, एतमप्युपचारं न जानन्ति, यथा- आपृछ्य गन्तव्यमिति, तदा चतुर्गुरुकाः । तथा सोऽप्रीतिकोत्पत्तिवशात्तयोरन्येषां वा साधूनां तद्रव्या-ऽन्यद्रव्यव्यवच्छेदं कुर्यात्, ततो भृतैर्भाजनैरागतयोस्तयोः शय्यातरो न स्थानं दद्यात्। कोपावेशाद् यदि दिवा निष्काशयति ततश्चतुर्लघु। तैश्च भूतैर्भाजनैरन्यां | वसतिं याचमानयोर्या आगाढादिपरितापना तन्निष्पन्नं चतुर्लधु। लोके च गोपजायते कुत्सितमाभ्यां किमप्याचरितम्, अन्यथा कथमकाण्ड एवाकृतभोजनौ निष्कासितौ? इति। एवं चान्यत्रापि तौ वसतिं न लभेते। ततो वसतिमलभमानौ तावन्यत्र गच्छतः, ततो मासकल्पभेदः । तथा च सति या तत्र विराधना तन्निष्पन्नमपि तयोः प्रायश्चित्तम्। अपि चान्ये साधवो विहारादिनिर्गतास्तत्राऽऽगताः, अन्या च वसतिस्तत्र न विद्यते, स च शय्यातरः
गाथा ९९८ शून्यवसति करणे दोषाः
५३० (B)
For Private and Personal Use Only