________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५३० (A)
वसतिपालः, एको भिक्षार्थं गतः। तत्र यो भिक्षार्थं गतस्तस्य स्वलिङ्गे संयत्या आलापादिकं पृच्छन्त्याः आत्म-परोभयसमुत्था दोषाः। परलिङ्गे चरिकादिकाया, गृहिलिङ्गे स्त्रियाः प्रोषितभर्तृकादिकायाः। होइ बहुदोस वसहि त्ति हिण्डमानाद्वसतिर्बहुदोषा भवति। किमुक्तं भवति? वसतिपालस्य हिण्डमानापेक्षया भूयांसो दोषाः। एकान्तमिति कृत्वा स्वलिङ्गिन्यादीनामुपपातसम्भवात् प्रदीपनके च लग्ने एकाकी स कथं करोति? अथैतै दोषा मा भूवन्निति शून्यां वसतिं कृत्वा निर्गच्छतः, तदानीं वक्ष्यमाणा बहवो दोषाः। तद्यथाद्वयोर्विहरतोर्ययेको ग्लानो भवति तदा तस्य ग्लानस्य एकाकिनो मोचने पिपासादिसम्भवतः, तथा मरणे मरणकाले शल्यं नोद्धतमिति शल्ये च तथाऽवस्थिते सति गरीयांसो दोषाः ॥९९७॥ तत्र द्वयोर्निर्गमने दोषानाहमिच्छत्त१ बडुयर चारण३ भडे४ य मरणं तिरिक्खमणुयाणं५ । आएस६ वालनिक्केयणे८, य सुण्णे भवे दोसा ॥ ९९८ ॥ उत्सर्गतस्तावदियं सामाचारी- शून्या वसतिर्न कर्तव्या। यदि पुनस्तौ शून्यां वसतिं कुरुतस्ततस्तयोः प्रत्येकं प्रायश्चित्तं चतुर्लघु तपसा कालेन च गुरु। उक्तं च-"सुन्नं जति वसहिं करेंति चउ लहुया दोहि वि गुरुगा"[ ] इति, अन्ये च बहवो दोषाः । तथाहि
गाथा
९९८
शून्यवसति करणे दोषाः
५३० (A)
For Private and Personal Use Only