________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
तृतीय उद्देशकः ७८४ (B)
मरहट्ठ लाड पुच्छा, केरिया लाडगुंठ साहिस्सं। पावार भंडिछुभणं, दसियागणणे पुणो दाणं ॥ १६८३ ॥ गुंठाहिं एवमादीहिं, हरति मोहित्तु तं तु ववहारं। दारं ७ अंबफरिसेहिं अंबो, न नेति सिद्धिं तु ववहारं ॥ १६८४ ॥ दारं ८।
एको लाटो गन्त्र्या किमपि नगरं व्रजति। अपान्तराले च पथि महाराष्ट्रिको मिलितः। तेन लाटस्य पृच्छा कृता- कीदृशाः खलु लाटाः गुण्ठा: मायाविनो भवन्ति?। स प्राह- पश्चात्साधयिष्यामि कथयिष्यामि। मार्गे च गच्छतां शीतवेलाऽपगता। ततो नष्टे शीते महाराष्ट्रिकेण प्रावारो गन्त्र्यां क्षिप्तः । तस्य च प्रावारस्य दशिका लाटेन गणिताः। ततो नगरप्राप्तौ महाराष्ट्रिकेण प्रावारो ग्रहीतुमारब्धः । लाटो ब्रूते- किं मदीयं प्रावारं गृह्णासि ?। एवं तयोः परस्परं विवादो जातः । महाराष्ट्रिकेण लाटो राजकुले कर्षितः । विवादे लाटोऽवादीत् -पृच्छत महाराष्ट्रिकं यदि तव प्रावारस्तर्हि कथय 'कति दशा अस्य सन्ति ? । 'महाराष्ट्रिकेण |* न कथिताः, तेन च लाटेन कथिताः' इति महाराष्ट्रिको जितः। ततो राजकुलादपसृत्य
गाथा १६८२-१६८८
तगरायाः दुर्व्यवहारिणः
अष्टौ
७८४ (B)
For Private and Personal Use Only