________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
तृतीय उद्देशकः
७८४ (A)
܀܀܀܀܀
pa
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आसते, ततः पक्वोल्लापयोगात्स पक्व इति ३ । पादेन सोपानहा आहत इत्युत्तरसदृशोत्तरकारी उत्तरः । इयमत्र भावना - केनापि कश्चित्सोपानहा पादेनाऽऽहतः, तेन च गत्वा राजकुले निवेदितम् कारणिकैश्च स आकारितः किं त्वयैष आहतः स प्राह न मयैष आहतः, किन्तु सोपानहा पादेन। एवं सोऽपि दुर्व्यवहारं कुर्वन् गीतार्थेन सूत्रोपदेशतः उपालब्धः सन्नेतादृशैश्छलवचनैरुत्तरं ददाति, ततः कदुत्तरकरणात् स उत्तर इति ४। ॥ १६८१ ॥
सम्प्रति चार्वाकं बधिरं चाऽऽह
रोमंथयते कज्जं, चव्वागी नीरसं व विसनेत्तं । दारं ५ ।
कहिते कहते कज्जे, भणाति बहिरो व न सुयं मे ॥ १६८२ ॥ दारं ६ ।
गाथा
१६८२ - १६८८ तगरायाः
यथा वृषनेत्रं वृषभसागारिकं नीरसमपरो वृषभश्चर्वयति एवं यः कार्यं रोमन्थायमाणो दुर्व्यवहारिणः निष्फलं चर्वयन् तिष्ठति स चर्वणशीलः चार्वाकि: ५ । तथा यः कथिते कथिते कार्ये बधिर इव ब्रूते- न सुष्ठु मया श्रुतमिति । स बधिर इव बधिरः ६ ॥ १६८२ ॥
अष्ट
७८४ (A)
गुण्ठसमानमम्लसमानं चाऽऽह
For Private and Personal Use Only