________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
वस्थम् तथा जरामरणान्यनन्तानि यस्मात्तत् जरामरणानन्तकम्, प्राकृतत्वाद्विशेषणस्य परनिपातः, मकारोऽलाक्षणिकः, अत एव घोरं रौद्रम्। अतो न लभते बोधिम्, नापि चारित्रमिति ॥ १६७४॥
1
.
व्यवहारसूत्रम् तृतीय उद्देशकः
कीदृशेन पुनर्व्यवहार: छेत्तव्यः? तत आह
७८२ (A)
पंचविहं उवसंपय, नाऊण खेत्त काल पव्वजं। तो संघमज्झयारे, ववहरियव्वं अणिस्साए ॥ १६७५ ॥
यत एवं वितथव्यवहारकरणे दोषास्ततस्तस्मात्पञ्चविधां ज्ञान-दर्शन-चारित्र-तपोवैयावृत्त्यभेदतः पञ्चप्रकारामुपसम्पदम्, क्षेत्रं कालं प्रव्रज्यां च ज्ञात्वा सङ्घमध्ये व्यवहर्तव्यम्। किमुक्तं भवति ? यः पञ्चविधायामुपसम्पदि आभवन्तमनाभवन्तं च जानाति, यश्च क्षेत्रमक्षेत्रं वा बुध्यते, क्षेत्रेऽपि च क्षेत्रिकस्य यदाभवति तद् जानाति, तथा क्षेत्रे यावन्तं कालमवग्रहोऽनुषजति तावन्तं कालमवबुध्यते, तथा प्रव्राजयितुं यो जानाति, प्रवाजितेऽपि केनापि तस्य | यद् आभवति यच्च नाऽऽभवति तद् जानाति, तेन सङ्घमध्ये अनिश्रया आहारादिप्रदायिषु स्वकुलसम्बन्ध्यादिषु वा रागाकरणत इतरेषामद्वेषकरणतो व्यवहर्तव्यम् ॥ १६७५ ॥
गाथा १६७५-१६८१ व्यवहार्यव्यवहारिस्वरूपम्
७८२ (A)
For Private and Personal Use Only