________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् तृतीय उद्देशकः ७७३ (B)
गीतार्थो धूलीजङ्घः समागतः सन् यद् भणिष्यति तत्प्रमाणमिति ॥ १६४० ।।
तेण य सुयं जहेसो, तेल्ल-घयादीहिं संगहीतो उ। कज्जाइं नेइ वितहं, मायी पावोवजीवी उ॥ १६४१ ॥
तेन च धूलीजङ्घनाऽऽगच्छतैव कस्यापि पार्श्वे श्रुतं यथा-एष वास्तव्यो व्यवहारच्छेत्ता तैल-घृतादिभिः सङ्ग्रहीतः सन् मायी अभीक्ष्णं मायाप्रतिसेवी पापोपजीवी कोण्टलाधुपजीवी वितथम् उत्सूत्रं कार्याणि नयति ॥ १६४१ ॥
सो आगतो उ संतो, वितहं दट्टण तत्थ ववहारं। समयेण निवारेई, कीस इमं कीरइ अकजं ॥ १६४२ ॥
एवं श्रुत्वा स समागतः सन् तूष्णीकस्तावदास्ते यावदुत्सूत्रेण निर्दिश्यमानं व्यवहारं ४ पश्यति तं च तथाभूतं तत्र वितथं व्यवहारं दृष्ट्वा समयेन सिद्धान्तेन निवारयति, यथा ||
७७३ (B) कस्मादिदमकार्यं क्रियते ? ॥१६४२॥ न केवलमेवं निवारयति किन्त्वेतदपि वक्ति
गाथा १६३५-१६४२ व्यवहारकरणसामाचारी
For Private and Personal Use Only