________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
तृतीय
उद्देशकः ७७२ (A)
नाएण छिन्ने ववहारे, कुलगणसंघेण कीरइ पमाणं। तो सेविउं पवत्ता, आहारादीहि कज्जीया ॥ १६३५ ॥
एवमुक्ते तेन न्यायेन श्रुतोपदेशेन व्यवहारश्छिन्नः, ततः कुल-गण-सङ्ग्रेन स प्रमाणं क्रियते। एष बहुश्रुतो न च श्रृतोत्तीर्णं किमपि वदति, तस्माद् यदेष भाषते तत्प्रमाणमिति। एवं च प्रमाणीकृते तस्मिन् श्रावक-सिद्धपुत्रादयः कार्यिकाः तत्कार्यार्थिनः सन्तस्तमाहारादिभिः सेवितुं प्रवृत्ताः, स च तान्याहारादीनि दीयमानानि गृह्णाति ॥ १६३५ ॥
तो छिंदिउं पवत्तो, निस्साए तत्थ सो उ ववहारं। पच्चत्थीहिं नायं, जह छिंदइ एस निस्साए ॥ १६३६ ॥
ततः आहारादिग्रहणानन्तरं स तत्र नगरे व्यवहारं निश्रया पक्षपातेन छेत्तुं प्रवृत्तः। ततो ये आहारादिकं न दत्तवन्तस्ते तस्य प्रत्यर्थिनस्तैः प्रत्यर्थिभितिं यथा-एष व्यवहारं निश्रया छिनत्ति ॥ १६३६॥
ततस्ते प्रत्यर्थिनश्चिन्तयन्ति
गाथा १६३५-१६४२ व्यवहारकरणसामाचारी
७७२ (A)
For Private and Personal Use Only