________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
उद्देशकः
७७१ (A)
प्रतिसेवकोऽप्यप्रतिसेवकोऽयतोऽप्ययतनात: प्रतिविरतः, निरपेक्ष: सापेक्षीभूतः, प्रमत्तोऽप्यप्रमत्ततामुपगतस्तदा भवन्त्येतेऽप्याचार्यत्वादिपदानां योग्याः। सम्प्रति सप्तानामपि सूत्राणां सम्भवविषयमाह
अहवा जो आगाढं, वंदणआहारमादिसंगहितो। कप्पं कुणइ अकप्पं, विविहेहिं य रागदोसेहिं ॥ १६३१ ॥ मायी कुणइ अकजं, को मायी जो भवे मुसावाई को य पुण मुसावाई असुई को पावसुयजीवी ॥ १६३२ ॥
अथवेति सूत्रव्याख्याप्रकारान्तरोपदर्शने, यो वन्दनादिभिः वन्दनवैयावृत्त्यादिना आहारादिभिः आहारोपधिशय्यादिभिः आगाढमत्यर्थं सगृहीतः सन् विविधैश्च रागद्वेषैः प्रागुक्तस्वरूपैः कल्प्यमपि आभाव्यमपि अकल्प्यम् अनाभाव्यं करोति। स सप्तानामपि सूत्राणां विषयः माई कुणइ इत्यादिकः , पुनरेवमकार्यमाभाव्यमप्यनाभाव्यमित्यर्थः करोति। एवं शिष्यस्य मायी मायावान् को मायी? तत आह- यो भवेत् मृषावादी। कः पुनर्मूषावादी? तत आह- अशुचिः। कोऽशुचिः ? पापजीवी एतस्य व्याख्यानं
गाथा
१६२७-१६३४
आचार्यादिपादयोग्या:
७७१ (A)
For Private and Personal Use Only