________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
X.
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः ७६८ (A)
X
यथा च त्रीणि सूत्राणि एकत्वेनोक्तानि एवं त्रीणि सूत्राणि बहुत्वेऽपि वक्तव्यानि।। सप्तमं बहुभिक्षु-बहुगणावच्छेदि-बह्वाचार्यविषयं, तदपि तथैव। अत्र भाष्यकृदाह
एगत्त-बहुत्ताणं, सव्वेसिं तेसिमेगजातीणं। सुत्ताणं पिंडेणं, वोच्छं अत्थं समासेणं ॥ १६२० ॥
एकत्वबहुत्वानां [एकत्व-बहुत्वादि]सम्बन्धिनां सर्वेषामेतेषां सूत्राणामेकजातीयानाम् | एकप्रकाराणां पिण्डेन समासेन अर्थं वक्ष्ये, एकजातीयतया पिण्डेनाप्युक्तौ वैविक्त्येन प्रतीते: ॥ १६२०॥ तत्र प्रथमत एकत्वबहुत्वविषयावाक्षेपपरिहारावाह
गाथा
१६२०-१६२६ एगत्तियसुत्तेसुं भणिएसुं किं पुणो बहुग्गहणं।
आचार्याचोयग! सुणसू इणमो, जं कारण मो बहुग्गहणं ॥ १६२१ ॥
दिपादयोग्याः एकत्वेन एकवचनेन नित्तानि एकत्विकानि तेषु एकत्विकेषु सूत्रेषु भणितेषु किं पुनर्बहुः || ग्रहणं बहुत्वविशिष्टसूत्रचतुष्टयोपादानं ? सूरिराह- यत्कारणं येन कारणेन मो इति पादपूरणे
४७६८ (A)
For Private and Personal Use Only