________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशक:
७६० (B)
***
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संवच्छराणि तस्स तप्पत्तियं नो कप्पड़ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दित्तिए वा धारेत्तए वा । तिहिं संवच्छरेहिं वीतिक्कंतेहिं चउत्थगंसि संवच्छरंसि पट्टियंसि उट्ठियंसि ठियस्स उवसंतस्स उवरयस्स पडिविरयस्स निव्वियारस्स, एवं से कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा ॥ २२ ॥
अक्षरगमनिका सूत्रपञ्चकस्यापि तथैव । अनिक्षेपणसूत्रद्विके गणावच्छेदकादयः पूर्ववदजापालक-श्रीगृहिकदृष्टान्ताभ्यां यावज्जीवमाचार्यपदानामनर्हाः । निक्षेपणसूत्रद्विके ताभ्यामेव दृष्टान्ताभ्यां प्रागुक्तप्रकारेण संवत्सरत्रयातिक्रमेऽर्हाः ॥ सम्प्रति भिक्षुसूत्रस्यानिक्षेपणसूत्रद्विकस्य च मैथुनसूत्रादापृच्छनविधौ यतनायां च यो विशेषस्तमभिधित्सुराह—
एमेव बितियसुत्ते, बियभंग निसेवियम्मि वि अठते ।
ताहे पुणरवि जयती, निव्वीतियमादिणा विहिणा ॥ १५९९ ॥ एवमेव अनेनैव प्रकारेण, भिक्षुमैथुनसूत्रे इवेत्यर्थः द्वितीयसूत्रे भिक्ष्ववधावनसूत्रे उपलक्षणमेतत् निक्षेपणसूत्रद्विके च द्वितीयभङ्गेन प्रागुक्तस्वरूपेण निषेवितेऽपि मैथुने अतिष्ठति वेदोदये ततः पुनरपि निर्विकृतिकादिना विधिना यतते ॥ १५९९ ॥
For Private and Personal Use Only
सूत्र १९-२२ गाथा
| १५९९-१६०३ पदयोग्यायोग्यतादिः
७६० (B)