________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
X
व्यवहार
सूत्रम् तृतीय उद्देशकः ७५९ (B)
गणावच्छेदियत्तं वा उद्दिसित्तए वा धारेत्तए वा ॥१८॥"भिक्खू य गणातो अवकम्मे" त्यादि। अथास्य सूत्रस्य कः सम्बन्धः? तत आह
जा तिन्नि अठायंते, सावेक्खो वच्चए उ परदेसं। तं चेव उ ओहावण, जं उज्झति दव्वलिंगं तु ॥ १५९८ ॥
यावत् त्रीन् वारानपवादतो द्वितीयभङ्गे स्त्रीसेवायामपि कृतायां न तिष्ठति वेदोदये पुनरेष्यामि, मा च ज्ञास्येऽहमिति निक्षिप्य प्रच्छन्नमवधावामीति यस्यापेक्षास्ति स सापेक्षः, स्वदेशपरिहरणार्थं परदेशं व्रजति। 'तत्र सुखं लिङ्गविवेकेन प्रतिसेविष्यामि' इति बुद्ध्या। एतदेव चावधावनं यल्लिङ्गविवेकबुद्ध्या गमनम्। तथा चाह- तं चेव य इत्यादि, तदेव अवधावनं यद् द्रव्यलिङ्गं रजोहरणादिकमुज्झति ‘मा प्रवचनस्योड्डाहो भूद्' इति कृत्वा॥ १५९८ ॥ ततः पूर्वं सूत्रपञ्चकानन्तरमिदमवधावनसूत्रपञ्चकम्। तद्यथा प्रथमं भिक्षुसूत्र१ तदनन्तरं | गणावच्छेदकसम्बन्धिनी क्रमेणानिक्षेपणनिक्षेपणविषये द्वे सूत्रे २३ ताभ्यामप्यनन्तरमाचार्योपाध्यायविषये क्रमेणाऽनिक्षेपण-निक्षेपणविषये द्वे सूत्रे ४। ५ ॥
सूत्र १८
गाथा १५९७-१५९८
भिक्षोः पदयोग्याज्योग्यता
७५९ (B)
For Private and Personal Use Only