________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः
५२६ (B)
विषमे५ शोधौ६ ग्लानादौ दोषा:७, तथा स्तेना द्विविधास्त्रिविधा वा ये भवन्ति तेभ्योऽपि दोषा भवेयुः८ । एष द्वारगाथासक्षेपार्थः ॥९८७ ॥ साम्प्रतमेनामेव द्वारगाथां विवरीषुः प्रथमतो | मार्गद्वारं शैक्षद्वारं चाह
मग्गं सद्दव रीयइ, पाउस उम्मग्ग अजयणाए व। द्वारं १ सेहकुलेसु य विहरति, नऽणुयत्तति ते ण गाहेइ ॥ ९८८ ॥ द्वारं २
मार्ग पन्थानं सोऽजानन् अगीतार्थः सद्रवं द्रवचारितया रीयते गच्छति, तत्र च | संयमविराधना कीटादिसत्त्वोपमर्दनात्, आत्मविराधना पादादिविस्खलनात्। तथा अज्ञतया पाउसत्ति प्रावृष्यपि काले गच्छति तत्रापि संयमविराधना आत्मविराधना च, तथा मार्गोन्मार्गानभिज्ञतया उन्मार्गेऽपि गच्छति। तत्र स्थाणुकण्टकादिभिरात्मविराधना, सचित्तपृथिव्याधुपमर्दनात् संयमविराधना च। तथा ग्रहणशिक्षायामासेवनाशिक्षायां वाऽप्रवीणत्वात् अयतनया वा गच्छेत्। अयतनया च संयमात्मविराधना। गतं मार्गद्वारम्१ । शैक्षद्वारमाहसेहेत्यादि, शैक्षकुलानि अभिनवप्रपन्नधर्माणि कुलानि तेष्वज्ञतया स विहरति।
गाथा ९८७-९९० अगीतार्थस्य विहारे दोषाः
५२६ (B)
For Private and Personal Use Only