________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
५२६ (A)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं कुरणेऽपि दोषा वाच्याः । कुरणं नाम राजकीयमन्यदीयं वा वीतं तथा अडवि स वराकोऽजानन् गा अटवीमपि प्रवेशयति । तत्र पुलिन्द्रादिभिर्गावो मार्यन्ते । तथा जलेत्ति सोऽजानन् नद्यादिषु तत्र प्रदेशे गाः पाययति, यत्र ग्राहादिभिर्जलचरैर्गाव आकृष्यन्ते । सावए इति स मूढो वराकस्तत्र प्रदेशे नयति । यत्र व्याघ्रादयो दुष्टश्वापदाः, तैश्च गाव उपद्रूयन्ते । तेणत्ति तेषु तेषु निकुञ्जादिषु नयति यत्र स्तेनानां प्रसरः, ततः स्तेनास्ता अपहरन्ति । एवं सोऽजानन् गा विनाशयति इतरस्तु ज्ञाता एतानि सर्वाण्यापत्स्थानानि परिहरति । योऽपि निश्रितस्तमपि परिहारयति । एषः दृष्टान्तः, अयमर्थोपनयः- यो गीतार्थः स सर्वानपि दोषान् स्वयं परिहरति । यस्तु निश्रितस्तं परिहारयति । यः पुनः स्वयमगीतार्थः, यश्चागीतार्थनिश्रितस्तयोरात्मविराधना संयमविराधना च भवति ॥ ९८६ ॥ तानेवात्मविराधनादिदोषान् विवक्षुर्द्वारगाथामाह
मग्गे सेहर विहारे३ मिच्छत्ते४ एसणादिविसमे५ य । सोहि ६ गिलाणमादी ७, तेणा दुविहा व तिविहा वा८ ॥ ९८७ ॥ दारगाहा ॥ मार्गे मार्गविषये१ तथा शैक्षे शैक्षककुलविषयेर एवं विहारे३ मिथ्यात्वे४ एषणादौ
For Private and Personal Use Only
गाथा
९८७-९९० अगीतार्थस्य
विहारे दोषाः
५२६ (A)