________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः ७४८ (A)
गौरवेण भयेन वा न कोऽपि संयतीनामपन्यायं करोति, किन्तु स्वपक्षे परपक्षे च तासु बहुमानो जायते । तथा संयती प्रवर्तिन्याः छंदे अवर्तमाना चोदयितुं शिक्षयितुं जे इति पादपूरणे, "जे पादपूरणे" इति वचनात् सुखं भवति। किमुक्तं भवति?- आचार्योपाध्यायभयतो न काचिदपि संयती आचारक्षतिमाचरति, यापि काचिदाचरति सापि प्रवर्तिन्या सावष्टम्भं शिक्ष्यते। अथ | शिक्ष्यमाणापि न प्रतिपद्येत ततः प्रवर्तिनी ब्रूते- आचार्यस्योपाध्यायस्य वाऽहं कथयिष्यामि। ततः सा भीता प्रवर्तिन्या उपपाते तिष्ठति । एते आचार्योपाध्यायसङ्ग्रहे गुणाः ।। १५७० ॥
सम्प्रति प्रवर्तिनीसङ्ग्रहे गुणानाहमिहोकहार्झट्टरविट्टरेहिं, कंदप्पकीडा-बउसत्तणेहिं। पुव्वाऽवरत्तेसु य निच्चकालं, संगिण्हते णं गणिणी सहीणा ॥१५७१॥ मिथःकथा परस्परं भक्तादिविकथाकरणं, झट्टरविट्टर नाम-तेषु तेषु गृहस्थप्रयोजनेषु कुण्टलविण्टलादिषु वा प्रवर्तनम्, एताभ्याम्। कन्दर्पक्रीडा कन्दर्पोद्रेकजननी कायवाक्चेष्टा। | बकुशत्वं शरीरोपकरणविभूषाकरणं एताभ्यां च, तथा पूर्वरात्रे अपररात्रे च गणिन्याः प्रवर्तिन्याः १. सट्टरविट्टरेहि- मो.। सट्टरवट्टरेहि-खंभा. जेभा.। वट्टरसट्टरेहि- वाभा.॥ २. साहीणा- मु.॥
सूत्र १३
गाथा |१५७१-१५७६
पदग्रहणा
ऽयोग्यता
७४८ (A)
For Private and Personal Use Only