________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
तृतीय
उद्देशकः
७४६ (A)
बाला वृद्धास्तरुणा वा केचिदगीतार्थाः 'आचार्याणां विप्रयोगे जाता वयमनाथाः' इति विचिन्त्य केचिदन्यत्र गच्छान्तरे गच्छन्ति, केचिदवधावेयुः१, तथा केचिन्मन्दधर्मश्रद्धाका गणादपक्रम्य स्वच्छन्दा भ्रमन्ति २। अपरे केचिदाचार्यविप्रयोगतः क्षिप्ताः क्षिप्तचित्ता अपगतचित्ता भवेयुः ३ ॥१५६५॥ |
स्वपक्षपरपक्षस्तेनान् लताकम्पनं चाहपासत्थ-गिहत्थादी, उन्निक्खावेज खुड्डुगादी उ। दारं ४। लयवायकंपमाणा उ, केई तरुणा उ अच्छंति ॥ १५६६ ॥ स्वपक्षे पार्श्वस्थादयः परपक्षे गृहस्थादयः, अत्राऽऽदिशब्दात् परतीर्थिकग्रहणम्। क्षुल्लकादीन् उन्निष्क्रामयेयुः। किमुक्तं भवति?- पार्श्वस्थादयः क्षुल्लकादीन् विपरिणामय्य पार्श्वस्थादीन् कुर्युः, अन्यतीर्थिकाः पुनरन्यतीर्थिकान्, स्वज्ञातयो गृहस्थानिति ४। लतेव | वातेन कम्पमाना संयमे परिषहै: केचित् तरुणास्तिष्ठन्ति। इयमत्र भावना-यथा पद्मलताऽन्यस्मिन्ननवष्टब्धा सती वातेन कम्पमाना तिष्ठति, एवं केचित्तरुणा गच्छेऽपि वर्तमानाः संयमे परीषहै: कम्प्यमानास्तिष्ठन्तीति ५॥१५६६॥
सूत्र १२
गाथा १५६६-१५७० त्रिसंगृहीता श्रमणी
७४६ (A)
For Private and Personal Use Only