________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
७३५ (B)
*******
*******
www.kobatirth.org
एते गुणा हवंती, तज्जायाणं कुटुंबपरिवुड्ढी । ओहाणं पिय तेसिं, अणुलोमुवसग्गतुलं तु ॥ १५३८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
साधुर्विषीदन् तान् तथाभूतान् दृष्ट्वा स्थिरो भवति । आर्यिका अपि तेषु यथाभूतेषु स्थापितेषु स्वचेतसि स्थिरा उपजायन्ते, गेलण्णत्ति ग्लानत्वे साधूनामौषधं सुलभं भवति । वैद्यतेषां प्रभावतोऽनुकूलां क्रियां करोति, यथा एते राजादिपुत्राः, तेषां चामी शिष्या इति । तथा भिक्षा उपकरणमपि साधूनामतिसुलभम्, ववहारो इत्थियाए इति स्त्रिया अपहृतायास्तेषां भयतो व्यवहारो लभ्यते । इयमत्र भावना - काचित् रूपवती कुमारश्रमणी केनापि राज्ञा गृहीता स्यात्, ततस्तेषां गतानां भयेन सा मुच्यते इति । वादे च तद्गौरवात्साधवोपरिभूता भवन्ति । अकिंचणकरे यत्ति योऽपि कश्चित् साधूनां प्रत्यनीकः सोऽपि तेषां राजादिकुमारप्रव्रजितानां भयतो न किञ्चित् करोति । अथवा अकिञ्चनानां साधूनां यदि कथमपि नाप्यर्थजातेन प्रयोजनमुपजायते तर्हि तत् सर्वं लोकः प्रायोऽप्रार्थित एव करोति ॥ १५३७ ॥ तदेवमेते अनन्तरोदिता गुणाः तज्जातानां राजादिजातानां यतोऽतस्ते निरुद्धपर्यायाः प्रत्यागताः प्रव्राजिताः तद्दिवस एवाचार्यादिपदेषु स्थाप्यन्ते । अयं च गुणः कुटुम्बपरिवृद्धिर्गच्छ
For Private and Personal Use Only
गाथा १५३२-१५३८ पदप्रदानकारणादीनि
७३५ (B)