________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः ७३० (B)
निग्गंथे "[सू.३] इत्यादिरूपस्योत्सर्गस्येदमपवादभूतं सूत्रमुच्यते। अनेन सम्बन्धेनायातस्यास्य व्याख्या
निरुद्धः विनाशितः पर्यायः व्रतपर्यायो यस्य स निरुद्धपर्यायः श्रमणो निर्ग्रन्थः कल्पते युज्यते तद्दिवसं यस्मिन् दिवसे प्रव्रज्यां प्रतिपन्नवान् तस्मिन्नेव दिवसे पूर्वपर्याय: पुनस्तस्य प्रभूततर आसीत् । तथा चाह-नियमेणेत्यादि, नियमेन पुनस्तस्य पूर्वपर्यायो विकृष्टो विंशतिवर्षाण्यासीत्। ततस्तद्दिवसं कल्पते आचार्योपाध्यायतया उद्देष्टम् ।। १५२४ ॥अत्र शिष्यः प्राह-से किमाहु भंते! से शब्दोऽथशब्दार्थः । अथ किं कस्मात्कारणाद् भदन्त ! परमकल्याणयोगिन् भगवन्त एवमाहुः, यथा- तद्दिवसमेव कल्पते आचार्यः उपाध्यायो वा उद्देष्टुम्। न खलु प्रव्रजितमात्रस्याचार्यत्वादीन्यारोप्यमाणानि युक्तानि,अगीतार्थत्वात्। अत्र सूरिराह- अत्थि | णमित्यादि । अस्तीति निपातः निपातत्वाच्च बहुवचनेऽप्यविरुद्धः, ततोऽयमर्थः, सन्ति विद्यन्ते णमिति वाक्यालङ्कारे, स्थविराणामाचार्याणां तथारूपाणि आचार्यादिप्रायोग्यानि कुलानि तेन | कृतानि गच्छप्रायोग्यतया निवर्तितानीत्यर्थः, येन यथाकालं तेभ्य आचार्यादिप्रायोग्यं | भक्तमुपधिश्चोपजायते। उपलक्षणमेतत् । तेन न केवलं तथारूपाणि कुलानि कृतानि, किन्त्वाचार्य
सूत्र ९
गाथा |१५२४-१५२६
पदप्रदाने अपवादः
७३० (B)
For Private and Personal Use Only