________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
तृतीय
उद्देशकः ७२४ (B)|
त्रिविधः खलु प्रकल्पधरः । तद्यथा सूत्रे सूत्रत:१ अर्थतः२ तदुभयतश्च ३। इयमत्र भावना-आचारप्रकल्पधारिणां चत्वारो भङ्गाः। तद्यथा- सूत्रधरो नोऽर्थधरः१ नो सूत्रधरोऽर्थधरः२ सूत्रधरोप्यर्थधरोऽपि३ नो सूत्रधरो नाप्यर्थधर:४। अत्र चतुर्थो भङ्गः शून्यः, उभयविकलतया आचारप्रकल्पधारित्वविशेषणासम्भवात्। आद्यानां तु त्रयाणां भङ्गानां मध्ये यस्तृतीयभङ्गवर्ती स उपाध्याय उद्दिश्यते, यतः स उभयधारितया गच्छस्य सम्यक् परिवर्धको भवति, तदभावे द्वितीयभङ्गवर्त्यपि, तस्याप्यर्थधारितया सम्यक्परिवर्धकत्वात्, नत्वाद्यभङ्गवर्ती। तथा चाह-सूत्रधरवर्जितानामाचारप्रकल्पधारिणां गच्छे गच्छस्य परिवर्धना त्रिके तृतीयभङ्गे, तदभावे द्वितीयभने च, ततस्त एवोपाध्यायाः स्थाप्याः, न प्रथमभङ्गवर्तिनः। एवं दशाकल्प-व्यवहारधरादिपदानामपि व्याख्या कर्तव्या॥ १५०५ ॥
गाथा १५०४-१५०९ कालपरिवर्तने दृष्टान्ताः
अत्र पर आहपुव्वं वण्णेऊणं, दीह परियाय संघयणसद्धं। दसपुव्विए य धीरे, मज्जाररुयं परूवणया ॥ १५०६॥
७२४ (B)
For Private and Personal Use Only