________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
एतेषामनन्तरगाथाभिहितानां बालादीनां बालाऽसमर्थवृद्धमार्गगमनादिश्रान्त-तप:क्लान्तवेदनात-जातातङ्कानां शय्या-निषद्योपधिप्रदानैः तथा भक्तं-मोदकाऽशोकवादि, अन्नमोदनादि, पान-भैषजे प्रागुक्तस्वरूपे, आदिशब्दादौपग्रहिकोपकरणादिपरिग्रहः, एतैः उपग्रहम् उपष्टम्भं करोति ॥१४९९ ।।
सूत्रम् तृतीय
उद्देशकः
७२३ (A)
गाथा
कथम् ? इत्याह
स्वयं शय्यादिकं ददाति, अन्यैर्वा दापयति, तथा स्वयं वैयावृत्त्यादि करोति अन्यैः कारयति कुर्वन्तं वा अन्यमनुजानीते। उवहियत्ति पदैकदेशे पदसमुदायोपचारादुपहितविधिरिति द्रष्टव्यम्, यद्यस्य गुरुभिर्दत्तं तत्तस्योपनयतीत्येष उपहितविधिः ॥१५००॥ यत्पुनस्तस्य दत्तं सोऽन्यस्मै गुरून् अनुज्ञाप्य ददाति, क्षमाश्रमण! क्षमाश्रमणैस्तुभ्यमिदं दत्तम्' इत्येषोऽनुपहितविधिः । एष सर्वोऽप्युपग्रहः ॥१५०१ ॥ ___ उक्त उपग्रहकुशलः। साम्प्रतमक्षताचारादिपदानां सामान्येन व्याख्यानमाह
आहाकम्मुद्देसिय, ठविय रइय-कीय-कारियच्छेज्जं। उब्भिण्णाहडमाले, वणीमगाजीवण निकाए ॥ १५०२॥
१४९७-१५०३
उपग्रहकुशलादयः
७२३ (A)
For Private and Personal Use Only