________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः ७२० (B)
तथा अनुकरणं नाम यत्सीवन-लेपादि कुर्वन्तं दृष्ट्वा ब्रूते 'इच्छाकारेण तवेदमहं करिष्यामि' कुरुते च। कारापणं नाम-यत्स्वयंकरणे अकुशलानन्यानपीच्छाकारेण कारापयति, तस्मिन् निसर्गः स्वभावो यस्य सोऽनुकरण-कारापणनिसर्गः, इत्थम्भूतस्तस्य स्वभावो यदनभ्यर्थित एव करोति कारयति चेति भावः ॥१४९०॥
गाथा
सम्प्रति कतिपयपदव्याख्यानार्थमाहवयणे तु अभिग्गहियस्स, केणवी तस्स उत्तरं भणति। वायणाए किलंते, उ गुरुम्मी वायणं देइ ॥ १४९१ ॥
वचने वचनविषये आभिग्रहिकस्य गृहीताभिग्रहस्य प्रतिपन्नमौनव्रतस्येत्यर्थः, केनापि ||१४९१-१४९६ प्रश्ने कृते सति तस्योत्तरं यद्भणति एष वचनसङ्ग्रहकुशलः । पश्चार्द्ध सुगमम् ॥ १४९१ ॥ साहूणं अणुभासइ, आयरिएणं तु भासिए संते।
७२० (B) सारे आयरियाणं देसे काले गिलाणादी ॥ १४९२ ॥
सङ्ग्रहकुशल:
For Private and Personal Use Only