________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
६९४ (A)
܀܀܀
www.kobatirth.org
स्थिरो नाम यः उद्योगं कुर्वन्नपि न परिताम्यति, तथा चाह-न विश्राम्यतीति ५ । चियाय त्ति दानरुचिः। यथौचित्यमाश्रितेभ्योऽन्येभ्यश्च ददातीत्यर्थः ६ । धृतिमान् राज्यकार्याणि कुर्वन् परनिश्रामनपेक्षमाणः तथा चाह- अणिस्सिते इति [ अनिश्रितः ] ७ । बुद्धित्ति औत्पत्तिक्यादिबुद्धिचतुष्टयोपेतः ८ । विनीतः गुर्वादिषु विनयकारी, यथौचित्यं गुर्वादीनामनुवर्त्तक इत्यर्थः । करणे इति यद्राज्ञः कर्तव्यं तत्करणे कुशलः ९ । एतेषु परीक्षा क्रियते । किमेते गुणाः सन्ति न वा ? तत्र य एतैर्गुणैरुपेतो भवति स राज्ञा राज्येऽभिषिच्यते ॥ १४१६-१७ ॥
[इदानीं निर्युक्तिकृदेव सर्वाणि पदानि व्याख्यानयन्नाह-] परवादीउवसग्गे, उप्पन्ने सूरयाए संतरति १ ।
अद्धाण तेणमादी, ओरस्सबलेण संतरति ॥ १४१८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१. सर्वेष्वप्यादर्शेषु [ ] एतादृक्कोष्ठकान्तर्गतो ग्रन्थसन्दर्भस्त्रुटितोऽस्ति । किञ्च मोमो आदर्शे १४१८-१९ गाथे उल्लिख्य तत्र " एतयोर्गाथयोः सपातनिकं व्याख्यानं त्रुटितम्" इति टिप्पनी लिखिता वर्तते, अतो ज्ञायते - प्राचीनकालादेव एष एतावान् ग्रन्थसन्दर्भस्त्रुटितोऽस्ति । अपि चात्रेदमवधेयम् - मो. आदर्शे १४१८-१९ गाथे लिखिते उपलभ्येते, तदन्येषु पुनः प्राचीनताडपत्रीय प्रभृतिष्वादर्शेषु पुनः एते गाथे अपि न स्त इति ॥ २. सूर आवई तर ला. । सूरयाए तं तरति पु. प्रे. ॥
For Private and Personal Use Only
गाथा १४१८-१४२४ आचार्यस्य
लक्षणानि
६९४ (A)