________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
एव वज्रभूतिः। ततो विपरिणामः। विपरिणामाच्च साक्षाददानं विरूपे परिवाररहिते च तस्मिन्नाचार्ये। एतेनैतदावेदितम्- यः परिवारवानपि रूपेण विरूपः सोऽपि द्रव्यपरिच्छदेन अपरिच्छन्नः, यतो यद्यपि तस्य परिवारोऽस्ति तथापि योऽधस्ताद् द्रव्यपरिच्छदो वर्णितस्तस्य मूलमाकृतिः, तदभावे तस्याभावात् ॥ १३९६-९७ ।।
सूत्रम्
तृतीय उद्देशकः ६८७ (B)
तथा चाह
गाथा
मूलं खलु दव्वपलिच्छयस्स सुंदेरिमोरसबलं च। आकितिमतो हि नियमा, सेसा वि हवंति लद्धीतो ॥ १३९८ ॥ समस्तस्यापि प्रागुक्तस्य द्रव्यपरिच्छदस्य मूलं खलु सौन्दर्यमौरसं च बलं हृदयबलिष्ठता, ||१३९४-१३९८ सर्वव्यापारेषु दाक्ष्यमिति भावः । कुतः ? इति चेद्, अत आह-हिः यस्मादाकृतिमतः सतो वज्रभूतिसूरिः
दृष्टान्तम्: नियमात् शेषा अपि लब्धयो वस्त्रादिविषया भवन्ति, न त्वाकृतिविरहितस्य तथा प्रत्यक्षत एव दर्शनात्। ततः 'आकृतिरहितोऽपि द्रव्यपरिच्छदरहितः' इति न तस्यापि गणधारणानुज्ञा ६८७ (B) ॥१३९८ ॥
For Private and Personal Use Only