________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
तृतीय
उद्देशकः ६७८ (A)
समानकुलप्रसूतामितरामसमानकुलप्रसूतां कन्यां परिणीय तां कुलमदेनोच्छीर्षकेण चटन्ती पादेनाहनिष्यामीति दुग्धघटिकायाः भिन्दनमकार्षीत् ॥ १३७० ॥
अत्रोपनयमाहपव्वावइत्ताण बहू य सिस्सेि, पच्छा करिस्सामि गणाहिवच्चं। इच्छा विगप्पेहिं विसूरमाणो, सज्झायमेवं न करेइ मंदो ॥१३७१॥ दारं ६
बहून् शिष्यान् प्रव्राज्य पश्चात्करिष्यामि गणाधिपत्यम्, एवमिच्छाविकल्पैः स मन्दो नित्यकालं विसूरयन् स्वाध्यायं न करोति, सूत्रार्थपौरुषीं न करोतीत्यर्थः। ताश्चाकुर्वाण: पूर्वगृहीतान् सूत्राऽर्थान् नाशयति यथा स द्रमको दुग्घघटिकां नाशितवान् ६॥ १३७१ ॥
सम्प्रति तृतीयभङ्गे उदाहरणमाहगावीतो रक्खंतो, घेच्छं च भत्तीए पड्डिया तत्तो। वोते गोवग्गे, होहिंति य वच्छिगा तत्थ ॥ १३७२ ॥
गाथा |१३७१-१३७६
भङ्गादिषु दृष्टान्तोपनयादिः
६७८ (A)
For Private and Personal Use Only