________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् तृतीय उद्देशकः ६७२ (A)
अत्रैवोपनयमाहसुत्तऽत्थअणुववेतो, अगीयपरिवार गमणपच्चंतं। परतित्थिकओहावण, सावगसेहादवण्णो उ ॥ १३६१ ॥ दारं १।
एवं सूत्रेण अर्थेन चानुपपेतः-असम्पन्नः अनेन भावतोऽपरिच्छन्नतामाह । अगीतपरिवारो अगीतार्थपरिवृतः अनेन द्रव्यतोऽपरिच्छन्नत्वमुक्तम्। स प्रत्यन्तं देशं प्रति गमनं विधाय आचार्यत्वं करोति। स च तथा आचार्यत्वं विडम्बयन् परतीर्थिकैः परिज्ञाय निष्पृष्टव्याकरणः क्रियते। तदनन्तरं श्रावकाणामपभ्राजना, यथा- विडम्बिता यूयम्, न भवदीयो धर्मः शोभनः, तथा च भवदाचार्यः पृष्टः सन् न किमप्युत्तरं ददाति, किन्त्वसमञ्जसं प्रलपतीति; तथा शिष्या अपि तैर्विपरिणम्यन्ते, एवं च जायते महानवर्ण: शासनस्य। तदेवं यत इमे दोषास्तस्माद् द्रव्य-भावपरिच्छदरहितेन न भिक्षुणा गणो धारयितव्यः॥ १३६१ ॥
गतं कुमारद्वारम्। अधुना वियरयदृष्टान्तमाहवणदव सत्तसमागम, वियरे सिंहस्स पुंच्छ डेवणया। तं दिस्सं जंबूएण- वि वियरे छूढामिगाईया ॥ १३६२ ॥
गाथा १३६१-१३६४
भिक्षोः गणधारणे
दृष्टान्ताः
६७२ (A)
For Private and Personal Use Only