________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
भिक्षौ द्रव्यभावाभ्यामपरिच्छन्ने गणं धारयति कुमारदृष्टान्त:१ । वियरए लघुश्रोतोरूपः, झामण वनदवे द्वितीयो दृष्टान्त:२, तृतीयः पतिदृष्टान्तः३, चतुर्थः शृगालराजदृष्टान्तः । पञ्चमो वित्रस्तेन सिंहेन सह युद्धस्याभावो दृष्टान्तः ५, एते पञ्च दृष्टान्ताः अप्रशस्ताः प्रथमभङ्गवर्तिनि, प्रशस्ताश्चतुर्थभङ्गे। द्वितीये द्रमकदृष्टान्तस्तृतीयभङ्गवर्तिनि भृतकस्य सतो दामकादिपरिग्रहो दृष्टान्तः ७। अत्राऽऽदिशब्दात् मयूराङ्गचूलिकादिपरिग्रहः ॥ १३५९ ॥
सूत्रम्
तृतीय उद्देशकः
६७१ (B)|
तत्र कुमारदृष्टान्तभावनार्थमाह
बुद्धी-बलपरिहीणो, कुमार पच्चंत डमरकरणं तु।
गाथा अप्पेणेव बलेणं, गेण्हावण सासणा रन्ना ॥ १३६० ॥
१३५६-१३६०
गणधारण एको राजकुमारः, बुद्धिबलपरिहीनः हस्त्यादिबलपरिहीनश्चेति भावः। एतेन द्रव्य
योग्याऽयोग्ये भावपरिच्छदरहितत्वमाख्यातम्। स प्रत्यन्तदेशे स्थितः डमरं-देशविप्लवं करोति। ततो दायादेन || दृष्टान्ताः राज्ञा तं बुद्धि-बलपरिहीनं ज्ञात्वा अल्पेनैव स्तोकेनैव बलेन दण्डप्रेषणेन ग्रहापणं तस्य |*
६७१ (B) राज्ञः कृतम्। ग्रहणानन्तरं च शासना कृता, ग्राहयित्वा स विनाशित इति भावः ॥ १३६०॥
For Private and Personal Use Only