________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशक:
६७० (A)
www.kobatirth.org
तत्र प्रतिबोधकोपमां भावयति
जह आलित्ते गेहे, कोइ पसुत्तं नरं तु बोहेज्जा । जरमरणादिपलित्ते, संसारघरम्मि तह उ जिए || १३५६ ॥
यथा आ - समन्ततो दीप्ते प्रदीप्ते गृहे कोऽपि परमबन्धुः प्रसुप्तं नरं प्रबोधयेत्तथा संसारगृहे जरामरणादिप्रदीप्ते जीवान् अप्रतिबुद्धान् भावसुप्तान् प्रबोधयति स स्थापनीयो गणधरो देशितस्तीर्थकरैः । उक्तः प्रतिबोधकदृष्टान्तः ॥ १३५६ ॥
सम्प्रति देशकादिदृष्टान्तमाह (न्तानाह ) -
बोइ अपडिबुद्धे, देसियमाई एव वि जोएज्जा । एयगुणविप्पहीणे, अपलिच्छन्ने य न धरेज्जा ॥ १३५७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
बोइ अपडिबुद्धे इति पूर्वगाथाव्याख्यायां व्याख्यातम् १, एवं देशिकादीनपि दृष्टान्तान् योजयेत् । तांश्चैवं- यो ग्रामादीनां पन्थानमृजुकं क्षेमेण प्रापयति स देशक इष्यते, एवं ज्ञानादीनामविराधनां कुर्वन् यो गच्छं परिवर्धयति स गणधरः स्थापनीयः न शेषः २ ।
For Private and Personal Use Only
गाथा
१३५६-१३६०
गणधारण
योग्यायोग्ये
दृष्टान्ता:
६७० (A)