________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
तृतीय
उद्देशकः ६६७ (B)
सम्प्रति गणस्य निक्षेपमभिधित्सुराहनामाइगणो चउहा, दव्वगणो खलु पुणो भवे तिविहा। लोइयकुप्यावयणिओ, लोउत्तरिओ य बोधव्वो ॥ १३४८ ॥
नामादिरूपो गणश्चतुर्धा चतुष्प्रकारः। तद्यथा-नामगणः, स्थापनागणो, द्रव्यगणो भावगणश्च। तत्र यस्य गण इति नाम स नामगणः। गणस्य स्थापनाऽक्ष-वराटकादिषु स्थापनागणः। द्रव्यगणो द्विधा-आगमतो नोआगमतश्च। तत्रागमतो गणशब्दार्थज्ञाता तत्र चानुपयुक्तः,नोआगमतस्त्रिधा ज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तभेदात्। तत्र ज्ञशरीर-भव्यशरीरे प्राग्वत्, तद्व्यतिरिक्तस्त्रिधा, तद्यथा- लौकिकः कुप्रावचनिको लोकोत्तरिकश्च ॥ १३४८॥
एतेषां त्रयाणामपि प्रतिपादनार्थमाहसचित्तादिसमूहो, लोगम्मि गणो उ मल्ल-पोरादि। चरकादिकुप्पवयणे, लोगोत्तरओसन्नऽगीयाणं ॥ १३४९ ॥
/
.
गाथा १३४६-१३४९ इच्छा-स्थापनागण शब्दानां निक्षेपाः
६६७ (B)
For Private and Personal Use Only