________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः ६६७ (A)
यथा- सुन्दरेण क्षेत्रेण लब्धेन क्रीडनेच्छा प्लवनेच्छा वा जायते, अधिकरणेन यथा- गृहे स्थितस्य भोगेच्छा कामेच्छा वा, सद्गुरुकुलवासे सम्यगनुष्ठानेच्छा वा समुपजायते इत्यादि। काले करणेन यथा यौवनकालेन धनेच्छा कामेच्छा वा जायते इत्यादि। अधिकरणे[न] यथा हेमन्ते रात्रौ शीतेन पीडितः सूरोद्गमकालमिच्छति । भावत इच्छा द्विधा-आगमतो नोआगमतश्च । तत्रागमत इच्छापदार्थज्ञाता, तत्र चोपयुक्त: 'उपयोगो भावनिक्षेपः' इति वचनात् ॥ १३४६ ।। 5
नोआगमत आह
गाथा
भावे पसत्थमपसत्थिया य, अपसत्थियं न इच्छामो। इच्छामो य पसत्थं, नाणादीयं तिविहमिच्छं ॥ १३४७ ॥
नोआगमतो भावत इच्छा द्विधा-प्रशस्ता अप्रशस्ता च। मकारोऽलाक्षणिकः।। १० तत्राज्ञानादिविषया इच्छा अप्रशस्ता, [तां नेच्छामः]प्रशस्ता ज्ञानादिविषया, तां त्रिविधा ०. मिच्छामिच्छामः ॥ १३४७॥
१३४६-१३४९
इच्छास्थापनागण शब्दानां निक्षेपाः
६६७ (A)
१. च्छा वपनेच्छा
वा - वा. मो. पु. मु. ॥
For Private and Personal Use Only