________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
व्यवहारसूत्रम् तृतीय उद्देशकः ६६६ (A)
.
यो नाम यमर्थं नामादिलक्षणमिच्छति, तस्य सा भवति इच्छा, यो नामेच्छति तस्य नामेच्छा, स्थापनामिच्छति स्थापनेच्छा, एवं द्रव्येच्छादिकमपि भावनीयम्। इच्छायाश्च निक्षेपः षोढा। तद्यथा- नामेच्छा, स्थापनेच्छा, द्रव्येच्छा, क्षेत्रेच्छा, कालेच्छा, भावेच्छा। तत्र नामेच्छामभिधित्सुराह-नामम्मीत्यादि, नाम्नि, नामविषया इच्छा इयं यन्नाम यद्देवदत्तादिकमात्मन इच्छति, देवदत्तादिकस्य नाम्न इच्छा नामेच्छेति भावः । अथवा यस्य इच्छेति नाम सा, नाम-नामवतोर-5 भेदोपचाराद् नाम चासौ इच्छा च नामेच्छा ॥ १३४५ ॥
स्थापनेच्छामाहएमेव होइ ठवणा, निक्खिप्पड़ इच्छए व जं ठवणं। सामित्ताई जहसंभवं, तु दव्वादिसु भणसु ॥ १३४६ ॥
एवमेवानेनैव नामगतेन प्रकारेण भवति स्थापना स्थापनेच्छा, अतिदेशोक्तमेव आह-* या इच्छा निक्षिप्यते सा, स्थापना चासाविच्छा च स्थापनेच्छेति व्युत्पत्तेः स्थापनेच्छा। अथवा यां स्थापनामिच्छति सा स्थापनेच्छा, स्थापनाया इच्छा स्थापनेच्छेति व्युत्पत्ते :। १. क्तमेव यदिच्छतनि पु. प्रे. ॥ २. यत् स्था' पु. प्रे.॥
गाथा १३४६-१३४९ इच्छा-स्थापनागण शब्दानां
निक्षेपाः
६६६ (A)
For Private and Personal Use Only