________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः ६६५ (B)
अधुना नियुक्तिविस्तर:भिक्खू इच्छा गणधारए, अपव्वाविते गणो नत्थि। इच्छा तिगस्स अट्ठा, महातलागेण ओवम्मं ॥ १३४४ ॥
भिक्षोरिच्छा गणं धारयितुं, स च गण: स्वयमप्रताजिते नास्ति, तस्मात् स्वयं साधवः प्रव्राजनीयाः । अथवा यद्यपि स्वयमप्रव्राजने गणो नास्ति तथाऽपि यदाऽवसन्न आचार्यो जातो भवति तदा योऽसावाचार्यस्य गणः स एव तस्य भवति। इच्छा च गणं धारयितुं त्रिकस्य ज्ञानादिरत्नत्रयस्यार्थाय, न तु पूजा-सत्कारनिमित्तमत्रार्थे औपम्यम् उपमा महातडाकेन। किमुक्तं भवति ? पद्मसरसा महातडाकेन गणपरिवर्द्धस्योपमा (धारणस्योपमा) कर्तव्या। सा चाग्रे भावयिष्यते। एष नियुक्तिगाथासक्षेपार्थः ॥१३४४ ॥
व्यासार्थं तु भाष्यकृद्विवक्षुः प्रथमत इच्छानिक्षेपमाहजो जं इच्छइ अत्थं, नामादी तस्स सा हवइ इच्छा। नामम्मि जं तु नामं, इच्छति नामं च जस्सिच्छा ॥ १३४५ ॥
सूत्र १
गाथा १३४०-१३४५ गणधारणसामाचारी
६६५ (B)
For Private and Personal Use Only