________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः
६६२ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
समकं भुञ्जाते। एतावता 'सम'त्ति सम्भावितम् ॥ १३३८॥ एतदेव व्याचिख्यासुराह___पासं उवरि व्व गहियं, कालस्स दवस्स वा वि असतीए।
पुव्वं भोत्तुं थेरा, दलंति समगं च भुंजंति ॥ १३३९ ॥
द्रवस्य पानीयस्य असति अभावे एकस्मिन् पार्श्व उपरि वा यद गहीतमाचार्ययोग्यं तत्पूर्वं स्थविरा भुक्त्वा पश्चाच्छेषं पारिहारिकाय ददति। कालस्य द्वयोः क्रमेण भोजनकालस्याऽसति समकं वा एककालं तौ भुञ्जाते। सम्प्रति सण्डासोपलक्षितशनकमांसदृष्टान्तभावना क्रियते-यथा कोऽप्यलर्केण शुना खादितः, स यदि तस्यैव शुनकस्य मांसं खादति, ततः प्रगुणीभवति, इत्यनेन प्रकारेण शुनकमांसं खादितुकामः ‘कथमहं सर्वास्पृश्यं शुनकमांसं स्पृशामि? इति सन्दंशकेन गृहीत्वा मुखे प्रक्षिपति, एवं खाद्यते । स च पारिहारिकोऽपि तत् कारणत एकस्मिन् पार्श्वे उपरि वा गृहीतं स्थविरसत्कं जुगुप्समान इव तत् परिहरन् आत्मीयं समुद्दिशति ॥१३३९॥ ॥ इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां द्वितीयोद्देशकः समाप्तः ॥ ॥ द्वितीयोद्देशके ग्रंथाग्रं ३०१३ ॥ ॥ एवं सर्वसङ्ख्यया ग्रंथाग्रं १३८९१ ॥
गाथा १३३९ पारिहारिकस्य
पात्रे भोजनविधिः
६६२ (B)
For Private and Personal Use Only