________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६६२ (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀
सन् स तथैव गृहीत्वा समागतः, ततः स्थविरपतद्ग्रहादात्मीये पतद्ग्रहे पलाशभाजने कमढके वा समाकृष्य समाकृष्य भुङ्क्ते। एषा पारिहारिकस्य सामाचारी। एतावता 'तवखेयवियं' इति भावितम्। सम्प्रति 'समं व सति काले' इति भाव्यते-यत्र ग्रामे नगरे वा तौ स्थविरपारिहारिकाववस्थितौ तत्र सर्वगृहेषु समकालं भिक्षाकालोऽजनिष्ट,तं स्थविरा ज्ञात्वा 'मा द्वितीयं वारं प्रविष्टः सन् एष न लभेत' इति सम्प्रस्थितं भाषन्ते एकत्रैवाऽऽत्मनो मम च योग्यं गृह्णीया इति । तत्र चोभयोरपि भोजनेऽनन्तरो विधि:> सम्प्रति 'दुल्लहदवं पडुच्चवे'ति भाव्यते, तद्भावनया च तत्थेव 'आयरिया सेहभिग्गहसम' [गा.१३३५] इति भाव्यमानं द्रष्टव्यंतत्र ग्रामे नगरे वा यत्तेनापि मृग्यमाणं स्तोकं पानीयं लभ्यते ततः पारिहारिकपतद्ग्रहस्य स्थविरपतद्ग्रहस्य च प्रक्षालनाय पानीयं न पूर्यते। तत एतद् ज्ञात्वा स्थविरास्तं पारिहारिकं सन्दिशन्ति एकस्मिन्नेव पतद्ग्रहे द्वयोरपि योग्यं गृह्णीथाः । एवं सन्दिष्टे पारिहारिकस्येयं सामाचारी तस्मिन् पतद्ग्रहे स्थविरयोग्यं यत् प्रायोग्यं भक्तं तद् विष्वग् गृह्णाति द्वितीये पार्श्वे आत्मयोग्यम्, अथवाऽऽत्मयोग्यमधस्ताद् गृह्णाति स्थविरयोग्य-मुपरिष्टात्, एवं गृहीत्वा वसतावागच्छति । तत्र चाचार्यभोजनविधि:- तस्यैवेकस्य पतद्ग्रहस्य एकस्मिन् पार्श्वे उपरि वा यदाचार्ययोग्यं गृहीतं तस्मिन्नाचार्ये भुक्ते, पश्चात्पारिहारिको यदन्यस्मिन् पार्श्वे अधस्ताद्वाऽऽत्मयोग्यं गृहीतं तत् |* | भुङ्क्ते, अथ यावत्स्थविरो भुङ्क्ते [स्वयं च] पश्चाद्भुङ्क्ते तावत्सूरोऽस्तमुपयाति ततो द्वावपि
गाथा १३३९ पारिहारिकस्य
पात्रे भोजनविधिः
६६२ (A)
For Private and Personal Use Only