________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः
६६१ (A)
___ अशिवादिकारणवशतो द्वौ आचार्य-पारिहारिकौ कारणिकौ जातो, किमुक्तं भवति ? | अशिवादिकारणवशतः शेषसाधून् देशान्तरे प्रेष्य तावेव केवलावेकत्रस्थानस्थितौ, तत्र योऽसौ | गुरुः स स्थविर इति कृत्वा अथवा केनापि रोगेण ग्रस्त इति भिक्षामटितुमसहः असमर्थः । यः पुनस्तस्य सहायः स परिहारतपःप्रतिपन्नो वर्तते। ततस्तत्रेयं सामाचारी-पारिहारिक: पूर्वमात्मीयेन पतद्ग्रहेणा-ऽऽत्मनो योग्यमानीय भुक्त्वा आत्मीयं पतद्ग्रहं स्थापयित्वा पश्चात्स्थविरसत्कं पतद्ग्रहं गृहीत्वा स्थविराणां योग्यं गृहीतुमटति। अथवा पूर्व स्थविरसत्कं पतद्ग्रहं कृत्वा स्थविरयोग्यमानीय स्थविराणां समर्प्य पश्चादात्मीयेन पतद ग्रहण हिण्डित्वाऽऽत्मना भुङ्क्ते ॥ १३३६ ॥
अत्र च परस्यावकाशमाहजइ एस सामायारी, किमट्ठ सुत्तं इमं तु आरद्धं ?। सपडिग्गहेतरेण व, परिहारी वेयवच्चकरो ॥ १३३७ ॥
यदि नाम एषा सामाचारी, यथा-परिहारी पारिहारीक: स्वपतद्ग्रहेण इतरेण वा | आचार्यपतद्ग्रहेण यथाक्रमं स्वस्याऽऽचार्यस्य च वैयावृत्त्यकर इति ततः इदं सूत्रं सूत्रद्वयं
सूत्र ३०
गाथा १३३५-१३३८ पारिहारिकस्य
पात्रे भोजनविधिः
६६१ (A)
For Private and Personal Use Only