________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः
६६० (B)
पदेशतो न स्वमनीषिकयेति। सम्प्रति नियुक्तिभाष्यविस्तर:
सपडिग्गहे परपडिग्गहे य बहि पुव्व पच्छ तत्थेव। आयरियसेहऽभिग्गह, समसंडासे अहाकप्पो ॥ १३३५ ॥
पूर्वं वसतेबहिर्भिक्षानयनाय निष्क्रम्य स्वपतद्गृहे स्वयोग्यमानीय पश्चात्परपतद्ग्रहे आचार्ययोग्यमानयति। अथवा पूर्वं परपतद्ग्रहे आचार्ययोग्यमानीय पश्चात् स्वपतद्ग्रहे | स्वयोग्यमानयति। अथवा कारणवशतस्तत्रैव एकस्मिन् पतद्ग्रहे उभययोग्यमानयति। आनीते च स्थविरेण पूर्वं भुक्ते पश्चात्पारिहारिकेण भोक्तव्यम्। अथ कालो न प्राप्यते तत आचार्यः स्थविरः शैक्षाभिग्रहः पारिहारिक एतौ द्वावपि समकम् एककालमेकस्मिन् पतद्ग्रहे भुञ्जाते। तत्र च सण्डासोपलक्षितः शुनकमांसदृष्टान्तो वक्तव्यः । एष यथाकल्पो यथावस्थिता सामाचारी॥ १३३५ ॥ साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतः 'सपडिग्गहे य बहि पुव्व पच्छ' इति व्याख्यानयति
कारणिय दोन्नि थेरो, सो व गुरू अहव केणई असहू। पुव्वं सयं व गेण्हइ, पच्छा घेत्तुं व थेराणं ॥ १३३६ ॥
सूत्र ३०
गाथा १३३५-१३३८ पारिहारिकस्य
पात्रे
भोजनविधि:
६६० (B)
For Private and Personal Use Only