________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशक:
६५८ (A)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्तव्यम्। एवमादेशे लब्धे तथैव मण्डकादिके निष्पादिते शेषं यदुद्धरति मण्डकादि तद् आपूपिकस्याभवति, एवं पारिहारिकस्यापि तत एवं तपः शोषितशरीरस्याऽऽप्यायननिमित्तमाचार्यस्य कल्पते अनुज्ञापनमित्यदोषः । कल्पस्थितिरेषा यद् ग्लायत आप्यायननिमित्तमेवमनुज्ञापनं कर्तव्यं, येन शेषं प्रायश्चित्ततपः सुखेन वहतीति ॥१३३१॥
सूपकारदृष्टान्तमेव सविस्तरं भावयति
एवइयाणं भत्तं, करेहि दिण्णम्मि सेसयं तस्स । इय भोइयपज्जत्ते, सेसुव्वरियं व देंतऽस्स ॥ १३३२ ॥
सूत्र २९ गाथा १३३२-१३३४ परिहारिका
एतावद्भिस्तन्दुलादिकैरेतावतां भक्तं कुरु इति समादेशे लब्धे निष्पादिते भक्ते दत्ते चोक्तप्रमाणेभ्यः पुरुषेभ्यो भोजने यच्छेषं तत्तस्याभवति, इति एवम् अमुना प्रकारेणाऽऽचार्यो - पदेशत: पर्याप्ते भोजिते शेषमुद्धरितमस्य पारिहारिकस्य परिवेषकस्याचार्यो ददाति ॥ १३३२॥ परिहारिक्योः सम्प्रति येन प्रमाणेनाऽऽचार्या उपदिशन्ति तत्प्रमाणमभिधित्सुराहदव्वप्यमाणं तु विदित्तु पुव्वं, थेरा से दाएंति तयं पमाणं । जुत्ते विसेसं भवते जहा ऊ, उच्छूरलंभे तु पकामदाणं ॥ १३३३ ॥
भोजनविधिः
For Private and Personal Use Only
६५८ (A)