________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशक:
www.kobatirth.org
******
हस्तं तदापि तस्य प्रायश्चित्तं लघुको मास: ५ ॥ १३३० ॥
कप्पइ य विदिन्नम्मी, चोयगवयणं च सेस सूवस्स ।
एवं कप्पड़ अप्पायणं च कप्पट्ठिती चेसा ॥ १३३१॥
वितीर्णे अनुज्ञाते सति कल्पते स्वयं स्वहस्तं परिलेढुम् । इयमत्र भावना-यद्याचार्यः ६५७ (B) समादिशति त्वं स्वहस्तं घृतादिविकृतिखरण्टितं स्वयमेव लेढि, ततः स लेढि । चशब्दादन्यदपि यत्परिभाजितशेषं तदप्याचार्येणानुज्ञातं भुङ्क्ते । चोयगवयणं चेति अत्र नोदकवचनं यथा-कथं परिहारिकस्य विकृतेरनुज्ञापनं युक्तम् ? इति । सूरिराह - सेस सूवस्स सूपस्य सूपकारस्य यथा शेषमाभाव्यं भवति तथा तस्यापीति भावः । एतदुक्तं भवति यथा सूपकारः केनापि स्वामिना सन्दिष्ट :- एतावत्प्रमाणैस्तन्दुल- मुद्गादिभिर्भक्तं निष्पाद्यैतावतः पुरुषान् भोजय४, एवमादेशे लब्धे साधिते भक्ते भोजितेषु च पुरुषेषु यच्छेषमुद्धरति तत्सर्वं सूपकारस्याभाव्यम् एवमाचार्योपदेशतः परिहारिकेण परिभाजिते यच्छेषमुद्धरति तत्तस्य पारिहारिकस्याऽऽभाव्यं, सूपकारदृष्टान्त उपलक्षणं तेनाऽपूपिकदृष्टान्तोऽपि वेदितव्यः । स चैत्रं- केनाप्यापूपिक आदिष्टः- एतावता कणिक्कादिना द्रव्येण एतावत्प्रमाणं मण्डकादि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
गाथा
१३२७-१३३१ परिहारिकाय
भोजनदानम्
६५७ (B)