________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५१७ (A)
पशान्तत्वान्नास्ति कश्चिदतिचारसम्भवः, ज्ञानविराधना तु सम्भवेदपि, अनुपयोगतोऽन्यथा प्ररूपणा-चिन्तनादिसम्भवात्। उपशमश्रेणितः पाते तु भवत्यतीचारः औदयिकभावे वर्तमानत्वात्, शेषेषु पुनः क्षायोपशमिकेषु ज्ञानदर्शनचारित्रेषु स्वस्थाने परस्थाने चाऽतीचारो भवेत् क्षायोपशमिकत्वाद् ॥९७० ॥ एतदेवाह
सट्ठाणपरट्ठाणे, खओवसमिएसु तीसु वी भयणा। दसण-उवसम-खतिए परहाणे होइ भयणा उ ॥ ९७१ ॥
क्षायोपशमिके भावे वर्तमानेषु त्रिष्वपि ज्ञानादिषु स्वस्थाने परस्थाने चातीचारस्य भजना, कदाचिद्भवति कदाचिन्न भवतीत्यर्थः। दर्शने उपलक्षणमेतत्, चरणे च औपशमिके क्षायिके च स्वस्थाने अतीचारो न भवति, परस्थाने तु भजना॥९७१ ॥
अत्र येन येन द्विकेनाधिकारस्तदभिधित्सुराहदव्वदुए दुपएणं, सच्चित्तेणं च एत्थ अहियारो। मीसेणोदइएणं,भावम्मि वि होति दोहिं पि ॥ ९७२ ॥
गाथा ९६९-९७३ निक्षेपाः साधर्मिकस्य
५१७ (A)
For Private and Personal Use Only