________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६५५ (B)
परिहारतपसि अयमधिकृतसूत्रेण प्रतिपाद्यमानो मर्यादाया विशेषः। एष पूर्वसूत्रेण सहाधिकृतसूत्रस्य सम्बन्धः । अनेन सन्बन्धेनायातस्यास्य व्याख्या
परिहारकल्पे स्थितः परिहारकल्पस्थितः, तस्य परिहारकल्पस्थितस्य भिक्षोर्न कल्पते अशनं पानं खादिमं स्वादिमं वा अन्यस्मै साक्षात्स्वहस्तेन दातुम्, अनुप्रदातुं वा परम्परकेण प्रदातुम्, अनुशब्दस्य परम्परकद्योतकत्वात्। अत्रैवानुज्ञामाह-थेरा य णमित्यादि, यदि पुनः स्थविरा णं इति वाक्यालङ्कृतौ वदेयुः इमं परिहारकल्पस्थितं भिक्षुम्- अहो आर्य! त्वमेतेभ्यो देहि परिभाजय अनुप्रदेहि वा। एवं स्थविरैरनुज्ञाते सति से तस्य कल्पते दातुमनुप्रदातुं वा। दाने अनुप्रदाने च तस्य हस्तो विकृतिद्रव्येण खरण्टितो भवति ततः से तस्य कल्पते। लेपं विकृतिं हस्तगतमनुज्ञापयितुम् यथा भदन्त ! यूयमनुजानीथ लेपखरण्टितं हस्तं लेवाए इति समासेवितुमेवमनुज्ञापने कृते सति से तस्य | कल्पते लेपं विकृतिं हस्तगतां समासेवितुम्, उपलक्षणमेतदन्यदपि यदुद्धरितं तदप्यनुज्ञातं | सत् कल्पते समासेवितुमिति सूत्रसक्षेपार्थः ॥
सूत्र २८
गाथा १३२४-१३२६ परिहारिकस्य भोजनदाने विधि:
६५५ (B)
१. विकृति प्रश्रेणिखर वा. पु. ॥
For Private and Personal Use Only