________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६४३ (B)
भगवर्त्यसम्भवे प्रकृत्या स्वभावेन न तु कपटभावतो मृदुस्वभावम्। अरोषणस्वभावं तथा प्रकत्या स्वभावेन सम्मतम् अभिमतं, समस्तस्यापि गच्छस्येति गम्यते। स्वजनसम्बन्धभावतो वा निजकम् आत्मीयं ज्ञात्वा गणस्य गुरुं स्थापयन्ति ।।१२९४ ॥
तस्य च चतुर्थभङ्गवर्तिनः सचित्तादिषु य आभवनव्यवहारस्तमभिधित्सुराहसाहारणं तु पढमे, बिइए खेत्तम्मि तइयसुहदुक्खे। अणहिजते सीसे, सेसे एक्कारस विभागा ॥ १२९५ ॥ प्रथमे वर्षे साधारणं, किमुक्तं भवति? यो यावल्लभते तस्य तत्। द्वितीये वर्षे यत् | क्षेत्रे तदीये लभ्यते तद्गच्छवर्तिनां साधूनां, शेषं गणधरस्य। तृतीये वर्षे [यत्] समसुखदु:खोपर्गा लभन्ते तत्तेषामेव गच्छवर्तिनामाभवति, शेषं गणधरस्य, चतुर्थादिषु वर्षेषु सर्वं गणधरस्य. एष आभवदव्यवहारोऽनधीयाने शिष्ये। किमक्तं भवति? ये स्थापिताचार्यस्य समीपे न पठन्ति तान् प्रति द्रष्टव्यः, ये पुनराचार्यस्य समीपे पठन्ति तेषामेकादशविभागाः। तथा चाह- शेषेऽधीयाने एकादशविभागाः प्रकारा आभवव्यवहारस्य। तानेव प्रतिपिपादयिषुराह१. 'पभोगाल वा. मो. पु. मु. ॥
गाथा १२९१-१२९५ पदस्थापने अपवादाः
६४३ (B)
For Private and Personal Use Only