________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः
६४२ (B)
बहिर्भावो बहिर्भावाऽध्यवसायो भवति। तथाहि- योऽसौ स्थापित आचार्यः स | गच्छवर्तिनः साधन समस्तानपि परकीयान्मन्यते। साधवोऽपि च गच्छवर्तिनस्तं परमभिमन्यते। एवं परस्परं बहिर्भावाध्यवसाये सति स्थापितस्याऽऽचार्यस्य गच्छवर्तिनां च साधूनामनाभाव्यानि सचित्तादीनि गृह्णतां नियमाद् भण्डनं कलहो भवति। तथा च सति प्रवचनोडाहः प्राक्कल्पव्यावर्णितप्रायश्चित्तापत्तिश्च,अन्यच्च गच्छवर्तिनस्ते साधवो मन्यन्तेसुचिरेणापि प्रभूतेनापि कालेन गच्छता नास्माकमेष परकीयत्वात्, उपलक्षणमेतत्, सोऽप्यभिमन्यते सुचिरेणाप्येते परकीया इत्येवं परस्परमध्यवसायभावतो गणस्य गच्छस्य भेदो भवति। तस्मादित्वरो यावत्कथिको वा प्रथमभङ्गवर्ती स्थापयितव्यः ॥ १२९२ ।।
अत्रैवापवादमाहअन्नयरतिगिच्छाए, पढमाऽसति तइयभंगमित्तरियं। तइयस्सेव य असई, बितितो तस्सासति चउत्थो ॥ १२९३॥ अन्यतरचिकित्सायां मोहचिकित्सायां रोगचिकित्सायां वाऽऽचार्यमित्वरम्, उप- /*
गाथा १२९१-१२९५ पदस्थापने अपवादाः
६४२ (B)
१. पढमस्सेव - जेभा. खंभा. । तइयस्सेव जे. भा. पाठान्तरम् ॥
For Private and Personal Use Only