________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः
६३१ (A)
अस्मभ्यं व्रतानि दत्थ, एवमुक्ते सूरिभिश्चरणे चरणविषये भरितं महातडागमिति। भरणादेव कस्मिंश्चित् प्रदेशे पालीभेदाद् गलदुदकं तत्क्षणादेव पतितेन तालफलेन तत्प्रदेशाऽऽपूरणान्निरुद्धोदकं दृष्टान्तः करणीयः। इह 'सुहुमं परिनिव्ववंती'त्युक्तं, तच्च सूक्ष्मं परिनिर्वापणं द्विविधं, तद्यथा-लौकिकं लोकोत्तरिकं च। तत्र लौकिकं यथा रौहिणिकचौरस्य अभयकुमारेण कृतम्। तच्चैवम्
रायगिहं नगरं, तत्थ रोहिणितो चोरो, बाहिं दुग्गे ठितो, सो सयलं नगरं मुसति। न कोइ तं घेत्तुं सक्कति। अन्नया वद्धमाणसामी समोसढो। रोहिणितो भयवतो धम्मं कहेंतस्स नातिदूरेणं वोलेइ, सो वलेमाणो 'मा तित्थगरवयणं सोउं चोरियं न काहामि' त्ति कण्णे ठएइ, तस्सेवं वोलेमाणस्स कंटको पादे लग्गो। तं जाव एगेणं हत्थेणं उद्धरइ ताव तित्थगरो इमं गाहत्थं पण्णवेइ ॥ १२६० ॥
अमिलायमल्लदामा, अणिमिसनयणा य नीरजसरीरा। चउरंगुलेण भूमि, न छिवंति सुरा जिणो कहए ॥ १२६१ ॥ सुरा देवाश्चतुर्निकायभाविनोऽपि अम्लानमाल्यदामानः। तथा न विद्यते निमेषो येषां |
गाथा १२५७-१२६१ रौहिणिक चौरः
६३१ (A)
For Private and Personal Use Only