________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६२७ (B)
पुहवी'' इत्यत्र, ततोऽयमर्थः-द्वाभ्यां पुरुषाभ्यां स्त्रीभ्यां वा वक्ष्यमाणस्वरूपाभ्यां भोजने भावतः शोधिर्भवति ५ ॥१२४८ ।।
तत्र "यथोद्देशं निर्देशः" इति प्रथमतो दण्डितादिद्वारत्रय(चतुष्टय)माहदंडिय सोउ नियत्ते, पुत्तादि मए व चउलहू होंति। दारं १। २। संकंत-मयाए वा, भोतिए चउगुरू होंति ॥ १२४९ ॥ दारं ३। ४।।
यत्र स सम्प्रस्थितस्तत्र तानि मनुष्याणि कस्मिंश्चिदपराधे राज्ञा दण्डितानि यदि वा तेषां पुत्रादिकं किमपि मृतम् , अथवा द्वयमपीदं जातं, ततो दण्डितान् यदि वा पुत्रादीन् मृतानथवा उभयमपि श्रुत्वा निवर्तते। ततो निवृत्ते निवृत्तस्य प्रायश्चित्तं चत्वारो लघुकाः लघुमासा भवन्ति १ । २ तथा भोजिका नाम भार्या, सा अन्यपुरुषसङ्क्रान्ता, अथवा मृता श्रुता, ततोऽन्यपुरुषसङ्क्रान्तायां मृतायां वा भोजिकायां निवर्तमानस्य चत्वारो गुरुकाः गुरुमासा भवन्ति ३। ४।।१२४९ ॥
सम्प्रति “भुंजणे दोसुं'ति व्याख्यानयति
गाथा १२४६-१२४९
पश्चाद्वलने प्रायश्चित्तनानात्त्वम्
६२७ (B)
For Private and Personal Use Only