________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
६११ (A)
www.kobatirth.org
अब्भत्थितो व रण्णा, सयं व संघो विसज्जयति तुट्ठो । आदी - मज्झ-ऽवसाणे, सच्चावि दोसो धुओ होति ॥ १२११ ॥ दारं १ ।
Acharya Shri Kailassagarsuri Gyanmandir
अभ्यर्थितो वा राज्ञा सङ्घो यदि वा स्वयमपि तुष्टः सङ्घो विसर्जयति मुत्कलयति । किमुक्तं भवति ? यद्व्यूढं तद् व्यूढम् शेषं सर्वं प्रसादेन मुक्तम्, सोऽगृहस्थीभूत एवोपस्थाप्यत इति । एतदेवाह - स चापि दोषो धूतः प्रकम्पितः प्रसादेन स्फेटित इत्यर्थः । आदौ मध्ये अवसाने वा भवति ॥ १२११ ॥
राजानुवृत्तिद्वारं गतम् १ । इदानीं प्रद्विष्टस्वगणद्वारमाह
सगणो य पट्ठो से, आवण्णो तं च कारणं नत्थि ।
एहिं कारणेहिं, अगिहिब्भूते उवट्ठवणा ॥ १२१२ ॥
से तस्याऽऽचार्यस्य स्वगणः प्रद्विष्टः सन् ब्रूते, यथा- अमुकेन कारणेनैष पाराञ्चितप्रतिपत्त्या गृहीभूतत्वमापन्न इति, तच्च कारणं तस्याऽऽचार्यस्य नास्ति । एताभ्यां कारणाभ्यां स्वगणप्रद्वेष- कारणाभावलक्षणाभ्याम् अगृहीभूते अगृहस्थीभूतस्य उपस्थापना
For Private and Personal Use Only
गाथा
१२०८-१२१३
अनवस्थाप्ये
सामाचारी
६११ (A)