________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५९२ (A)|
www.kobatirth.org प्रयोजनं जातोऽस्येत्यर्थजातः। पक्षद्वयेऽपि क्तान्तस्य परनिपातः सुखादिदर्शनात्। स पुनः कथं ग्लायति? इति चेद् अत आह- स पुनः प्रथमतः प्रथमव्युत्पत्तिसूचितः संयमभावात् । चाल्यमानः कम्प्यमानः परिग्लायति। द्वितीयव्युत्पत्तिपक्षे प्रयोजनानिष्पत्त्या ग्लायति ॥११५६॥
तस्योभयस्यापि अगिलया प्रागुक्तस्वरूपया वक्ष्यमाणं वैयावृत्त्यं करणीयं यावत् रोगातङ्कादिव रोगातङ्कात् संयमभावचलनात् प्रयोजनानिष्पादनाच्च विप्रमुक्तः स्यात्। ततः । पश्चाद् यत्किमप्याचरितं भीषणादि तद्विषये यथालघुस्वको व्यवहार: प्रस्थापितः स्यादिति।। सम्प्रति नियुक्तिकृत् येषु स्थानेषु संयमस्थितस्याप्यर्थजातमुत्पाद्यते तान्यभिधित्सुराह
सेवगपुरिसे१ ओमे२, आवन३ अणत्त४बोहिगे तेणे। एएहिं अट्ठजातं, उप्पजइ संजमट्ठियस्स ॥ ११५७ ॥ [बृ.भा. ६२८७]
सेवकपुरुषे सेवकपुरुषविषये१, एवम् ओमे दुर्भिक्षेर, तथा आपने दासत्वं समापने३, तथा विदेशान्तरगमनत उत्तमर्णेनानाप्ते ४, तथा बोधिकैरपहरणे स्तेनैरपहरणे च, | बोधिका अनार्यम्लेच्छाः, स्तेना आर्यजनपदजाता अपि शरीरापहारिणः५, एतैः
गाथा
१९५७-११६२
अर्थजात प्ररूपणा
५९२ (A)
For Private and Personal Use Only