________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
वारितः सन् कलहं कुर्यात्। ततः स कलह उपशमयितव्यः। एतत्प्रदर्शनार्थमधि- 18 कृतसूत्रारम्भः, अस्य व्याख्या प्राग्वत्। अथ सोऽनुपशान्तः सन् कुर्यात् द्विविधं द्विप्रकार भेदं संयमभेदं जीवितभेदं चेत्यर्थः ॥११४६ ।।
द्वितीय
तत आह
उद्देशकः ५८८ (A)
संजम-जीवियभेदे, सारक्खण साहुणो य कायव्वं । पडिवक्खनिराकरणं, तस्स ससत्तीए कायव्वं ॥ ११४७ ॥
संयमभेदे जीवितभेदे वा तेन क्रियमाणे संरक्षणं साधोः कर्तव्यम्। तथा तस्य साधोर्यः प्रतिपक्षस्तस्य निराकरणं स्वशक्त्या कर्तव्यम् ॥११४७ ॥
कथं कर्त्तव्यम् ? इत्यत आहअणुसासण भेसणया, जा लद्धी जस्स तं न हावेजा। किं वा सति सत्तीए, होइ सपक्खे उवेक्खाए ? ॥ ११४८ ॥ तस्य प्रथमतः कोमलवचनैरनुशासनं कर्तव्यं, तथाप्यतिष्ठति भीषणं प्रतिभीषण
सूत्र १६-१७
गाथा ११४७-११५१ सप्रायश्चित्त
भक्तपान प्रत्याख्यातयोः विधिः
५८८ (A)
For Private and Personal Use Only