________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५७२ (B)
तस्यापि परायत्ततया तथारूपासु चेष्टासु प्रवृत्तेः ॥१०९८ ॥ एतदेव सविशेषं भावयति
पासंतो वि य काये, अपच्चलो अप्पगं विधारेउं। जह पेल्लितो अदोसो, एमेवमिमंपि पासामो ॥ १०९९ ॥ [बृ.क.भा.६२३४]
यथा परेण प्रेरित आत्मानं विधारयितुं संस्थापयितुम् अप्रत्यलः असमर्थः सन् पश्यन्नपि कायान् पृथिवीकायिकादीन् विराधयन् अन्निकापुत्राचार्य इव अदोषः निर्दोषः। एवमेव अनेनैव च प्रकारेण परायत्ततया प्रवृत्तिलक्षणेन इममपि क्षिप्तचित्तमदोषं पश्यामः ॥१०९९॥ इह पूर्वं प्रगुणीभूतस्य प्रायश्चित्तदानविषये त्रय आदेशा गुरुकादय उक्ताः, ततस्तानेव गुरुकादीन् प्ररूपयति
गुरुगो गुरुगतरागो, अहागुरूगो य होइ ववहारो। लहुओ लहुयतरागो अहालहूगो य ववहारो ॥ ११०० ॥ लहुसो लहुसतरागो, अहालहूसो य होइ ववहारो। एएसिं पच्छित्तं, वोच्छामि अहाणुपुव्वीए ॥ ११०१ ॥
सूत्र ११,
गाथा |१०९८-११०६
दीप्तचित्ते सामाचारी
५७२ (B)
For Private and Personal Use Only