________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५७१ (B)
[इह वस्तु] चेतनं वा स्यादचेतनं वा, चेतनत्वा-ऽचेतनत्वविशेषस्यात्राप्रयोजकत्वात् । कथमप्रयोजकत्वम् ? अत आह-परतन्त्रत्वेन परायत्ततया यतो द्वे अपि तुल्ये, ततो न : किञ्चिद्वैषम्यम्। पर आह-न त्वया अत्र कर्मोपचयचिन्तायां किञ्चिदपि मनागपि विशेषितं येन जीवपरिगृहीतत्वेऽप्येकत्र कर्मोपचयो भवति, एकत्र नेति प्रतिपद्यामहे। अत्राऽऽचार्यो भणति ब्रूते- शृणु भण्यमानं विशेषम् ॥१०९६ ॥ तमेवाह
नणु सो चेव विसेसो, जं एगमचेयणं सचित्तेगं। जह चेयणे विसेसो, तह भणसु इमं निसामेहि ॥ १०९७ ॥
[बृ.क.भा. ६२३२] ननु स एव यन्त्रनर्तकीस्वाभाविकनर्तकीदृष्टान्तसूचितो विशेषः यद् एकं शरीरं जीवपरिगृहीतमपि परायत्ततया चेष्टमानमप्यचेतनमिवाऽचेतनम् एकं स्वायत्ततया प्रवृत्तेः
गाथा
१०९२-१०९७ क्षिप्तचित्ते कर्मबन्धाभावः
५७१ (B)
१. "यद् ‘एकं शरीरं' यन्त्रनर्तकी सत्कं परायत्तया चेष्टमानमप्यचेतनम्, 'एक तु' स्वाभाविकनर्तकीशरीरं स्वायत्ततया प्रवृत्तेः 'सचित्तं' सचेतनमिति । पर आह" इति बृहत्कल्पवृत्तौ पाठः ॥
For Private and Personal Use Only