________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहारसूत्रम्
द्वितीय
उद्देशकः ५६८ (B)
यतन्ते प्रयत्नपरा भवन्ति, उद्गमोत्पादनादिदोषविशुद्धाहाराद्युत्पादनेन प्रतिचारका अन्येऽपि . च यतमानास्तं प्रतिचरन्तीति भावः। एषा यतना दैविके क्षिप्तचित्तत्वे दृष्टव्या। एवं वातादिना धातुक्षोभेऽपि प्रत्येकं साम्भोगिकाः मिश्रा वा असाम्भोगिकैः सम्मिश्रा वा पूर्वोक्तप्रकारेण यतन्ते ॥ १०८७ ॥
पुवुद्दिट्ठो उ विही, इह वि करेंताण होति तह चेव। तेगिच्छम्मि कयम्मी, आदेसा तिण्णि सुद्धो वा ॥ १०८८ ॥
[बृ.क.भा. ६२२३]
गाथा यः पूर्वं कल्पाध्ययने [प्रथमोद्देशके] ग्लानसूत्रे उद्दिष्टः प्रतिपादितो विधिः स एव
१०८६-१०९१ इहापि क्षिप्तचित्तसूत्रेऽपि वैयावृत्त्यं कुर्वता तथैव भवति ज्ञातव्यः। चैकित्स्ये च
क्षिप्तचित्ते चिकित्सायाः कर्मणि च कृते प्रगुणीभूते च तस्मिन् त्रय आदेशाः। एके ब्रुवते- गुरुको | प्रायश्चित्ताभावः व्यवहारः प्रस्थापयितव्यः, अपरे ब्रुवते- लघुकः, अन्ये व्याचक्षते- लघुस्वकः । तत्र तृतीय आदेशः प्रमाणः, सूत्रोपदिष्टत्वात्। अथवा सः शुद्धः न प्रायश्चित्तभाक्, परवशतया
५६८ (B) रागद्वेषाभावेन प्रतिसेवनात् ॥१०८८॥
For Private and Personal Use Only