________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
५६६ (B)
www.kobatirth.org
अगडे इति सप्तमी पञ्चम्यर्थे, ततोऽयमर्थः- अवटात् कूपात् उपलक्षणमेतत्, अपवरकाद्वा यदि पलायते कथमपि ततस्तस्य मार्गणमन्वेषणं कर्तव्यम् । तथा ये तत्रान्यत्र वा आसन्ने दूरे वा अन्यगणा विद्यन्ते तेषां च निवेदनाकरणम्, तेषामपि निवेदनं कर्तव्यमिति भावः । यथा - अस्मदीय एकः साधुः क्षिप्तचित्तो नष्टो वर्तते, ततस्तैरपि स गवेषणीयोः दृष्टे च सङ्ग्रहणीयः । यदि पुनर्न गवेषयन्ति नापि संरक्षन्ति स्वगणवर्तिनोऽन्य- गणवर्तिनो वा तदा तेषां प्रायश्चित्तं चत्वारो गुरुका मासाः । यच्च करिष्यति षड्जीवनिकायविराधनादिकम् यच्च व्याघ्रादिमरणादिकं तन्निमित्तं तेषां प्रायश्चित्तमिति ॥ १०८२ ॥
छम्मासे पडियरिडं, अणिच्छमाणेसु भुज्जतरगो वि । कुल-गण-संघसमाए, पुव्वगमेणं निवेएज्जा ॥ १०८३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[बृ.क. भा. ६२१८] पूर्वोक्तप्रकारेण तावत्स प्रतिचरणीयो यावत् षण्मासा भवन्ति । ततो यदि प्रगुणो जायते तर्हि सुन्दरम्। अथ न प्रगुणीभूतस्ततो भूयस्तरकमपि तस्य प्रतिचरणं विधेयम्। अथ
For Private and Personal Use Only
गाथा १०८२-१०८५ क्षिप्तचित्ते
यतना
५६६ (B)